Posts

श्रीबुधमहाग्रहध्यानानि

Image
                            रचयिता                  पं.श्रीव्रजकिशोरत्रिपाठी                   ***************** (१) आत्रेयं मगधोद्भवं शशिसुतं हारिद्रवर्णान्वितं चापस्थं करवालचर्मगदिनं पीताम्बरैर्भूषितम् । पीताभैः कुसुमैर्विराजित़तनुं शान्तं महापण्डितं  श्रीसौम्यं प्रणमामि तं शरणदं बुद्ध्यादिसंसिद्धये ।। (२) आत्रेयो विधुनन्दनः कनकभो वैश्यो विशाखायुतो विष्णुप्रत्यधिदैवतः सुमतिमान् नारायणाधिप्रभुः। श्यामो वृश्चिकराशिजो हरिरथः श्रीषोडशीष्टामरो नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि सौम्यग्रहम्।। (३) तारागर्भसमुद्भवं शशिसुतं पीताम्बरेणावृतं दूर्वाश्यामलभं महाबुधमणिं पीतप्रसूनप्रियम्। आत्रेयं हरिवाहनं वरगदाचर्मासिभिर्भूषितं नत्वाहं नितरां प्रयामि शरणं विष्णुप्रियं तं बुधम्।। (४) सूर्यास्यः शशिनन्दनः शममनास्तारासुतो वैश्यजः  सिंहस्यन्दनमण्डनो वरगदाखड्गादिभिः शोभितः। ज्ञानी ज्ञानिगणप्रियः स्थिरमना ज्ञानप्रदः सात्त्व...

अग्निदेवध्यानानि

Image
                            रचयिता                  पं.श्रीव्रजकिशोरत्रिपाठी                 ******************** (१) स्वर्णाभं त्रिशिखं सुपीतवसनं षल्लोचनं मेषगं नानाभूषणभूषितं द्विजगुरुं यज्ञाङ्गिनं सिद्धिदम्। देवानां वदनं पवित्रसदनं कल्याणरत्नाकरं हव्यामोदहृदं प्रसन्नमनिशं होमाग्निदेवं भजे।। (२) ऊर्द्ध्वास्यं कपिलं जटापरिवृतं स्मेराधरं सुन्दरं श्वेताब्जासनमध्यगं त्रिचरणं शीर्षद्वयाभूषितम्। लोलत्तप्तरसेन्द्रियं सुरवरं शान्तं द्विनासं विभुं नानालक्षणपूरितं सुफलदं वह्निं भजे शाश्वतम्।। (३) सृष्ट्यादौ विधिरूपकोऽवनविधौ विष्णुस्वरूपस्ततो रुद्रात्मा च विनाशने धरति यः प्रीत्या जगच्छान्तये। हस्तेषु प्रविभान्ति यस्य कलशस्रूग्दण्डशक्तिश्रुवा वन्दे तं दुरितान्तकं कुशलदं वह्निं परं दैवतम्।। (४) त्वं सूर्योष्णकरो विधूदयकरस्त्रैलोक्यतेजस्कर स्त्वं रुद्रस्य विलोचनद्युतिकरो दुर्गाद्युतिद्योतकः। लोकस्येष्टकरस्त्रितापहनकः सर्वार्थकामापक स्...

श्रीमङ्गलमहाग्रहध्यानानि

Image
                          रचयिता                  श्रीव्रजकिशोरत्रिपाठी                 ****************** (१) भारद्वाजकुलोद्भवं क्षितिसुतं सर्वाङ्गरक्तद्युतिं रक्ताच्छादनभूषितं सुरनुतं रक्ताभपुष्पप्रियम् । हस्तैश्चर्मगदासिशक्ति दधतं दिव्यं त्रिकोणस्थितं श्रीभौमं प्रणमामि रक्तवदनं प्राप्तुं  सदा सम्पदम् ।। (२) रक्ताभो युवसत्तमोनलसमो वीरो भरद्वाजजो भूमिप्रत्यधिदैवतः क्षितिसुतः स्कन्दाधिदेवः प्रभुः। राजन्यो वगलामुखीष्टविबुधः स्वातीभवस्तौलिजो नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि भौमग्रहम्।। (३) भारद्वाजकुलोद्भवं क्षितिसुतं रक्तप्रभासुन्दरं मेषस्यन्दनगं प्रकाशभरितं सिन्दूरभावन्दितम्। शक्तं शक्तिधरं करालनयनं रक्ताम्बरेणान्वितं नत्वाहं नितरां प्रयामि शरणं धारापहं मङ्गलम्।। (४) ज्योतिःपुञ्जसमं ज्वलज्ज्वलनभं ज्वाजल्यमानेक्षणं चण्डं दण्डितशत्रुकाण्डमनिशं दोर्दण्डशक्त्यान्वितम्। भूमेः पुत्रवरं कुमारमतुलं वीरग्रहं सुन्दरं  भौमं...

श्रीशिवध्यानपञ्चामृतम्

Image
                            रचयिता                     श्रीव्रजकिशोरत्रिपाठी                  ******************* (१) पांशुप्रेमी पटविरहितः पर्वती पावकाक्षः पत्नीसक्तः प्रमथगणपः पार्वतीपुत्रपालः। पापध्वंसी पतितजनताप्राणपाता पिनाकी पृथ्वीपूज्यः प्रभुपशुपतिः पञ्चवक्त्रः प्रपातु।। (२) भीतिं भेत्ता भरितभुवनो भक्तभाग्यस्य भर्त्ता भूदेवेशो भवभयहरो भद्रभारस्य दाता। भस्माभूषो भपतिभरणो भग्नमाराभिमानो भीमोऽभीमो भवतु भगवान् भूतये भावयामि।। (३) शान्ताकारः शिखरिशयनः शीतरश्मेः शरण्यः  शूलीशानः शमनशमनः शंकरः शत्रुमर्दः।  श्यामग्रीवः शिवमयशिवः शेमुषीशीलवर्षी शीघ्रं शम्भुः शमयतु शरीरार्त्तिराशीन्नमामि।। (४) श्रीश्रीकण्ठः शशधरधरः श्वेतरूपः शिखाढ्यः शैलाधीशः शवशयनपः शुद्धशश्वत्स्वरूपः। शक्रासेव्यः शमितदुरितः शासिता शब्दशास्त्रं शीघ्रं शम्भुः शमयतु शरीरार्त्तिराशीन्नमामि।। (५) शुक्लज्योतिः शशिशकलभृद् शण्ढशोभः शिवेशः श्यामा...

श्रीचन्द्रमहाग्रहध्यानानि

Image
                          रचयिता                 श्रीव्रजकिशोरत्रिपाठी               ****************** (१) आत्रेयं यमुनातटस्य तनयं शुक्लाम्बराच्छादितं  शुक्लांशुकरसुन्दरं ज्ञजनकं शुक्लप्रसूनान्वितम् । आधिव्याधिहरं वृतार्द्धसदनं शुक्लप्रियं खेचरं श्रीचन्द्रं शुभकारकं शशधरं भक्त्या नमामि प्रभुम् ।। (२) आत्रेयो यमुनाभवोऽमृतकरश्चोमाधिदेवो विभु स्तोयप्रत्यधिदैवतो वृषभजः श्वेतोनुसूयासुतः। वैश्यः श्रीभुवनेश्वरीष्टविबुधो यो रोहिणीतारको नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि  चन्द्रग्रहम्।। (३) अत्रेस्तं तनजोत्तमं सुतपसस्तापान्तकं  शान्तिदं त्र्यक्षाग्रोपरिसंस्थितं रजतभं तारापतिं कान्तिदम्। मुक्तास्तोमसमं तमश्चयहरं रात्रीश्वरं शीतगुं नत्वाहं नितरां प्रयामि शरणं चन्द्रं सितांशूज्ज्वलम्।। (४) शान्तं कान्तकरं सुधाकरकरं रात्रीकरं सुन्दरं नक्तंध्वान्तहरं मनोहरतनुं रौप्यप्रभं वर्तुलम्। शुभ्रांशुं कुमुदव्रजोदयकरं पद्मालयासोदरं स्वच्छं शान...

ग्रहाधिप्रत्यधीष्टदेवताध्यानम्

Image
                            रचयिता                   पं.श्रीव्रजकिशोरत्रिपाठी                    --------------------------- ग्रहाधिप्रत्यधीष्टदेवताध्यानम् -: (क) ग्रहाधिदेवताध्यानं प्रार्थना      ********************* (१) शम्भुं भूतपतिं महोदधिसुतां लक्ष्मीं कुमारं प्रभुं विष्णुं विश्वपतिं जलात्मजसुतं श्रीब्रह्मदेवं विभुम्। इन्द्रं स्वर्गपतिं यमं पितृपतिं कालं महाभीषणं ध्यायेत्तान् शुभदान् ग्रहाधिविबुधान् श्रीचित्रगुप्तं सदा।। (२) शम्भुर्ज्ञानततिं हरेः सुगृहिणी वित्तस्य भाण्डं मुदा स्कन्दो दिव्यबलं महागुणगणं विष्णुः स्वयम्भुः सुतान् इन्द्रः प्रेम यमश्च घर्ममथकालश्चित्रगुप्तः सुखं दत्त्वा पान्त्वधिदेवताः सुमनसा नित्यं ग्रहाणां मुदा।। (ख) ग्रहप्रत्यधिदेवताध्यानं प्रार्थना       ************************ (१) अग्निं देवमुखं पवित्रचरिता आपो महाशान्तिदा भूमिं भूतिधरां जगत्त्रयधरं नारायणं वा...

श्रीरविमहाग्रहध्यानाष्टकम्

Image
                            रचयिता                   तं.श्रीव्रजकिशोरत्रिपिठी                    ***************** (१) कञ्जाक्षं कलुषान्तकं कलिहरं श्रीकश्यपस्यात्मजं रक्ताभैः कुसुमैर्विभूषिततनुं रक्ताम्बरेणावृतम् । सर्वारिष्टहरं सुवर्त्तुलगृहं सप्ताश्वयुक्तं खगं श्रीसूर्य्यं प्रणमामि तं ग्रहपतिं निर्व्याधिताप्राप्तये ।। (२) आदित्यः शिवदैवतो दिनपतिः श्रीकश्यपस्यात्मजो वह्निप्रत्यधिदैवतो द्युतिकरः सिन्दूरभः क्षत्त्रियः। मातङ्गीष्टसुरेश्वरो मकरजस्ताराधनिष्ठायुतः नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि सूर्यग्रहम्।। (३) कालिङ्गं करभूषणं कमलिनं कृष्णोदकाकन्यकं कर्त्तारं दिवसं करालकिरणं कालप्रपं काश्यपम्। कह्लारोदयकारकं कलिहरं कैलासनाथप्रियं नत्वाहं नितरां प्रयामि शरणं सूर्यं ग्रहाधिश्वरम्।। (४) पद्मानन्दकरं करैर्विलसितं त्रैलोक्यतेजःप्रदं लोकारोग्यकरं सुमण्डलकरं लोकस्य रक्षाकरम्। ज्योतिःपुञ्जधरं धरासुखकरं सर्वप्रमोदप्रद...