श्रीविष्णुध्यानमाला

                         रचयिता
                पं.श्रीव्रजकिशोरत्रिपाठी 
(१)
शिष्टानामिष्टवर्षी शमनविशमतानष्टिकारी स्वदृष्ट्या
दुष्टानां कष्टदाता प्रणतजनगणानिष्टविभ्रष्टिकर्त्ता।
स्रष्टा सर्वस्य सृष्टेः स्फुटितकमलदृक् पुष्टितुष्टौ पटिष्ठः
द्रष्टा भक्तस्य निष्ठां विलसितकमलो जिष्णुविष्णुः समव्यात्॥
(२)
मेघश्यामसमं सुपीतवसनं त्रैलोक्यशोभाकरं
चक्रं तामरसं गदां विदधतं शङ्खं च हस्तैः सदा।
संसाराघविनाशनं गरुडगं रक्षास्वभावं प्रभुं
श्रीविष्णुं प्रणमामि शान्तवदनं तं लोकपालं मुदा।।
(३)
दिव्याकारं दनुजदलनं दामदेहं दयाद्रिं
पद्मानाथं गरुडगमनं सर्पतल्पाधिरूढम्।
शङ्खं चक्रं जलभवगदे रम्यहस्तैर्वहन्तं
श्रीविष्णुं तं कमलनयनं विश्वतातं नमामि।।
(४)
दृष्ट्वा रामां रमां तां जलनिधिजनितां लोककाम्यां सुरम्यां
हृष्टोरिष्टारिजिष्णुः स्मरगुणचपलः  प्राप्तुकामस्तदाभूत्।
ज्ञात्वैतद्देवदैत्या विहसितवदनाः सादरं रान्ति तस्मै
विष्णुः प्रीतोतिपायात् प्रमुदितहृदयो नः सभार्यः सभार्यः।।
(५)
स्थेयं दुष्टमते! प्रभोः पदयुगे
स्तेयं पदाब्जामृतं
ज्ञेयं तच्चरितं सदात्मगतये गेयं च पद्यं मुदा।
चेयं पुष्पफलं तदर्च्चनकृते देयं मनः सर्वदा 
ध्येयं तस्य यशः प्रमादहतये पेयो रमावल्लभ!।।
(६)
प्राचण्ड्यं तरणौ हिमं शशिमणौ वेगं समीरात्मनि
शैत्यं वारिणि दाहमग्निवदने नानावसूनि क्षितौ।
जीवे जीवनतां जने विचारतां शस्यानि वृक्षादिषु
पश्वादौ मतिहीनतां विहितवान् पायात् स नारायणः।।
(७)
जयतु जयतु जेता दानुजीं राज्यलक्ष्मीं
धरतु धरतु धर्त्ता भाजकीं भाग्यलक्ष्मीम्।
पचतु पचतु पाता पापकीं पापपंक्तिं
मथतु मथतु मेशो मामकीं मन्दबुद्धिम्।।
(८)
समुद्रत् संजातां परमरमणीं भाग्यभवनीं
हरिर्दृष्ट्वा प्रीतो वदति परिणेतुं सुरगणम्।
तथा कृत्वा तत्रानयति निजवासं वरवधूं
महानन्दाद् वन्दे समवतु सपद्मः स सुखदः।।
(९)
ब्रह्मा यस्य पदारविन्दयुगलं भक्त्या मुदा वन्दते
सर्वं सोऽपि विहाय शान्तमनसा शम्भुश्च यं ध्यायति।
लक्ष्मीर्यस्य पदं महाग्रहतया दासीसमा सेवते
वन्दन्ते विबुधाश्च यं प्रतिदिनं नारायणं तं भजे।।
(१०)
भक्त्या यस्य च नारदादिमुनयो गायन्ति गीतं मुदा
कैवल्याय भजन्ति भक्तिहृदया यं मोक्षधामप्रदम्।
प्रह्लादः सरलः सदा प्रजपति प्रीत्या यदीयस्तुतिं
तस्याख्यानततिं जपामि मनसा पायात् स विष्णुर्भवात्।।
(११)
इन्द्राद्याः सकलाः सुराः सविनयं यस्यांघ्रियुग्माम्बुजे
नत्वा दुःखभयं निवेद्य सहसा प्रापुर्वरं स्वेच्छया।
मद्दुःखं जगतो भयं प्रदमने तस्यैव पादद्वयं
भक्त्या नौमि स पातु मामहरहर्ब्रह्माण्डनाथो हरिः।।

         इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचिता
        श्रीविष्णुध्यानममाला समाप्ता।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा