श्रीभास्कराष्टकम्

                           रचयिता
                    पं.व्रजकिशोरत्रिपाठी
(१)
वन्दे ताम्रतनुं प्रभातपटले वन्दे दिवा दीपकं
वन्दे रक्तमयं दिनान्तसमये वन्दे त्रिगुणात्मकम्।
वन्दे ब्रह्महरीशरूपसहितं वन्दे जगत्पालकं
वन्दे दीप्तकरं रविं दिनकरं वन्दे सदा भास्करम्।।
(२)
वन्दे चोदयपर्वतस्य कुसुमं वन्देरविन्देश्वरं
वन्दे स्वर्णरथं तमोन्तककरं वन्दे महानन्ददम्।
वन्दे शङ्खगदारथाङ्गललितं वन्दे सरोजान्वितं
वन्दे दीप्तकरं रविं दिनकरं वन्दे सदा भास्करम्।।
(३)
वन्दे सुन्दरमण्डलं वृतनिभं वन्दे क्षितिद्योतकं
वन्दे रक्तगुणं महाफलसमं वन्देऽक्षयशक्तिदं
वन्दे पद्मलताप्रियं खगमणिं वन्दे जगल्लोचनं 
वन्दे दीप्तकरं रविं दिनकरं वन्दे सदा भास्करम्।।
(४)
वन्दे कङ्कणकुण्डलदिललितं वन्दे विभूषान्वितं
वन्दे स्वर्णनिभं सुवर्णमुकुटं वन्दे हिरण्यत्विषं
वन्दे पक्वफलप्रभं च मिहिरं वन्दे समदुःखहं
वन्दे दीप्तकरं रविं दिनकरं वन्दे सदा भास्करम्।।
(५)
वन्दे वञ्जुलविग्रहं ग्रहवरं वन्दे ग्रहाधीश्वरं 
वन्दे प्रीतिकरं त्रिनेत्ररुचिरं वन्दे जगत्कामदं
वन्दे चण्डकरं प्रचण्डभयहं वन्देऽखिलप्राणपं
वन्दे दीप्तकरं रविं दिनकरं वन्दे सदा भास्करम्।।
(६)
वन्दे कश्यपनन्दनं सुरवरं वन्देऽदितिप्रीतिदं
वन्दे सप्ततुरङ्गनाथमतुलं वन्देत्रिलोकीश्वरम्।
वन्दे मण्डलमण्डितं खगमनं वन्दे क्षपानाशकं 
वन्दे दीप्तकरं रविं दिनकरं वन्दे सदा भास्करम्।।
(७)
वन्दे दाडिमपुष्पसन्निभतनुं वन्दे जपाकान्तिभं
वन्दे रश्मिविभूषितं कमलिनं वन्दे नभोधीश्वरम्।
वन्देऽनेकसुखप्रदं त्रिजगतो वन्देऽखिलारोग्यदं
वन्दे दीप्तकरं रविं दिनकरं वन्दे सदा भास्करम्।।
(८)
वन्दे सर्वव्यथाहरं द्युतिमयं वन्दे प्रजावत्सलं
वन्दे भक्तमनोरथस्य फलदं वन्दे प्रणामप्रियम्। 
वन्दे रोगहरं महाभयभिदं वन्दे दयादायकं
वन्दे दीप्तकरं रविं दिनकरं वन्दे सदा भास्करम्।।

        इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
          श्रीभास्कराष्टकं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा