श्रीशिवपञ्चाक्षरस्तुतिः
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
(१)
नन्दीश्वरं नूतनचन्द्रचूडं
नागेन्द्रहारं नगजामनोज्ञम् ।
नारायणीसेवितपादपद्मं
न-काररूपं प्रणमामि नित्यम् ॥
(२)
महेश्वरं मङ्गलमंजुलास्यं
मन्दारमालामकरन्दयुक्तम्।
मन्दाकिनीराजितदिव्यजुटं
मः-काररूपं प्रणमामि नित्यम् ॥
(३)
शिवं सुकण्ठं शववासवासं
शान्तस्वरूपं शशिकान्तिकान्तम्।
श्रीविष्णुवन्द्यं तपनादिनेत्रं
शि-काररूपं प्रणमामि नित्यम्॥
(૪)
वामार्द्धवेशं विषकण्ठमीशं
वृषाधिरूढं विभुवामदेवम् ।
विश्वैकवन्द्यं प्रभुविश्वनाथं
वा-काररूपं प्रणमामि नित्यम् ॥
(५)
यतीश्वरं यक्षगणादिसेव्यं
यमान्तकं देवगणातिपूज्यम् ।
यशोतिविद्याधनपुत्रधीदं
य-काररूपं प्रणमामि नित्यम् ॥
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचिता
श्रीशिवपञ्चाक्षरस्तुतिः समाप्ता।
-------०---------
Comments
Post a Comment