श्रीविष्णुदशकम्

                          रचयिता
                 पं.श्रीव्रजकिशोरत्रिपाठी
                      *************
(१)
श्रीविष्णुंं सर्वजिष्णुं सुरकुलतिलकं सौम्यवेशं समेशं
शान्तं कान्तं कृपालुं त्रिगुणविरहितं  कोटिकामप्रशंस्यम्।
शम्भुब्रह्मादिसेव्यं मुनिगणगमितं भक्तलोकाधिनाथं
वन्दे तं विश्वतातं विहितबहुसुखं दिव्यलावण्यरूपम्।। 
(२)
यस्याङ्गे पीतवस्त्रं कनककरयुतं चन्दनं भालभागे
नानाहाराश्च कण्ठे दरकमलगदाचक्रशोभा करेषु।
श्रीवत्साङ्को हृदंशे मणिमयमुकुटं सुन्दरं शीर्षदेशे
वन्दे तं विश्वतातं विहितबहुसुखं दिव्यलावण्यरूपम्।। 
(३)
यत्पार्श्वे सिन्धुपुत्री परमसुखकृते सेवते पादयुग्मं
घोरानन्तः प्रशान्तं विलसति सततं स्वीकृत्य च्छत्ररूपम्।
क्षीराब्धिर्लब्धुमिष्टिं वहति निजतनौ शैत्यवायुं प्रदाय
वन्दे तं विश्वतातं विहितबहुसुखं दिव्यलावण्यरूपम्।। 
(४)
संसारं स्रष्टुकामो जनयति जलजाद् ब्रह्मदेवं सुदक्षं
प्राप्यादेशं ततोऽसौ सृजति निजबलात् सौष्टवं सर्वसृष्टिम्।
दृष्ट्वा तां प्रीतचेताः समवति नितरां सर्वदा यः ससौख्यं
वन्दे तं विश्वतातं विहितबहुसुखं दिव्यलावण्यरूपम्।। 
(५)
संसारेऽसारराशिं दनुतनयकृतिं वीक्ष्य योऽधर्मवृद्धिं
हन्तुं पापान् ततोयं विचलितहृदयः कौशले दत्तचित्तः।
धृत्वा नानास्वरूपं हरति हरिरतो भूमिभारं च भीतिं
वन्दे तं विश्वतातं विहितबहुसुखं दिव्यलावण्यरूपम्।। 
(६)
मत्स्यः कुर्मो वराहो भवति पशुपतिर्वामनः स्वप्रभाभिः
क्रोधीशो जामदग्न्यो दशरथतनयो नन्दपुत्रः कदा वा।
योगी बुद्धश्च कल्की हरति च विविधं सर्वदा दुःखभागं
वन्दे तं विश्वतातं विहितबहुसुखं दिव्यलावण्यरूपम्।। 
(७)
यो लोकानन्दकारी सकलशुभगिरिः सर्वदेहे विहारी
मायामोहप्रहारी नरककरिहरिः पापसंघातहारी।
भक्तानां त्राणकारी भवजलधितरी घोरवाधाविदारी
वन्दे तं विश्वतातं विहितबहुसुखं दिव्यलावण्यरूपम्।। 
(८)
पद्मास्यः पद्मनाभः कमलपदयुगः सन्ततं  पद्महस्तः
पद्माक्षः पद्मपाणिस्त्रिभुवननमितो योपि पद्मानिवासः।
पद्मातातप्रपूज्यः पतितजनपतिर्हन्ति पापं च तापं
वन्दे तं विश्वतातं विहितबहुसुखं दिव्यलावण्यरूपम्।। 
(९)
दैत्यानां मृत्युदायी व्यथितवसुमती-शान्तिदायीष्टदायी
प्रह्लादह्लाददायी विनयिजनगणप्रीतिसौभाग्यदायी।
मोक्षज्ञानप्रदायी कुनयकुटिलताकापथध्वंसदायी
वन्दे तं विश्वतातं विहितबहुसुखं दिव्यलावण्यरूपम्।। 
(१०)
भूनाथोऽनाथनाथः प्रथितगुणकथोऽनर्थनाशे समर्थः
शंनाथः प्राणनाथस्तव कथितमथो नाथते नास्तिनाथः।
स्वर्थाय प्रार्थयेहं वितर हितपथं कारयास्मिन् कृतार्थं
लक्ष्मीनाथं नृनाथं विहगपतिरथं नौमि वैकुण्ठनाथम् ।।

      इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
           श्रीविष्णुदशकं समाप्तम्।
                     -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा