श्रीमहालक्ष्मीध्यानमाला
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
*******************
(१)
पद्मा पद्मधरा सुपद्मनिलया पद्मानना पद्मिनी
पद्माक्षी धनरत्नभूषितभुजा दारिद्र्यविध्वंसिनी ।
माता ब्रह्ममयी समुद्रदुहिता विश्वेश्वरी वैष्णवी
पाहि त्वं कमले नमामि सततं संसाररक्षाकरी ॥१॥
(२)
लक्ष्मीर्भाग्यकरी महाधनकरी रूपाकरी भास्करी
साक्षात् पुण्यकरी जनोदयकरी प्रज्ञाकरी श्रीकरी ।
प्राणित्राणकरी सदा सुखकरी रक्षाकरी श्रीहरी
भक्ताह्लादकरी चिदाकरकरी रात्नाकरी पातु नः ॥२॥
(३)
लक्ष्मीः कान्तिमयी महासुखमयी वात्सल्यनिष्ठामयी
शान्तिप्रीतिमयी सदा धनमयी दीक्षामयी शम्मयी ।
दिव्यज्ञानमयी क्षमागुणमयी भाषामयी भामयी
भक्तानन्दमयी कृपाकरमयी श्रद्धामयी पातु नः ॥३॥
(૪)
लक्ष्मीः पद्ममतिर्दयाकरवती ज्योतिष्मति मृद्वती
यापि ब्रह्मवती पराभगवती लीलावती श्रीसती ।
संपद्दानवती महारूपवती मायावती भूमती
सा श्रीर्विष्णुमती प्रजागणवती पद्मावती पातु नः ॥૪॥
(५)
या राष्ट्रस्य गृहे गृहे विहरते
दानाय नित्यं धनं
या पूते सदने सदा निवसते दातुं महासंपदम्।
या मन्त्रस्तवनैर्वशीभवति या भक्तप्रिया भक्तिदा
सा पायाद्धनदायिनी भगवती विष्णुप्रिया सर्वदा ॥५॥
(६)
यस्या मातृकृपाबलात्प्रतिदिनं खाद्यं लभन्ते जनाः
भिक्षूणामपि दुःखतां प्रचलति ख्याता भवन्ति क्षितौ ।
देवा यत्कृपया वसन्त्यपि दिवि प्राप्य सदा वैभवं
वन्दे तां धनदायिनीं कमलिनीं लक्ष्मीं दयासागरीम् ॥६॥
(७)
चण्डालस्य वधूर्यदीयकृपया लेभे महावैभवं
यत्तोषाद्-भुवनत्रयं च लभते शान्तिं सुखं भोजनम्।
यन्नामस्मरणाद्-विभेति सततं
दैन्यं च दुःखं विपद्
वन्दे तां धनसागरीं धनकरीं लक्ष्मीं सरोजासनाम्॥७॥
(८)
चण्डालोपि यदीयवत्सलगुणं
लब्धुं क्षमो भूतले
स्वस्वामी कुरुतेपि भिक्षुकसमो भैक्ष्यं हि यत्कोपतः ।
यत्स्नेहप्रभवात् सुखं विलसति क्रोधाद् विपत्तिर्जने
वन्दे तां जलजेक्षणां जलधिजां लक्ष्मीं जगद्व्यापिनीम् ॥८॥
(९)
लोला लालन्यशीला मधुरिपुललना दिव्यदुग्धाब्धिबाला
सौभाग्याधीश्वरी या गजगणललिता सर्वदा रत्नलीला ।
दारिद्र्यध्वंसदक्षाधिकधनसुखदा सर्वलोकावनेच्छा
प्रीत्या सा पद्मसद्मा निवसतु सदने स्थायिरूपेण पद्मा ।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीमहालक्ष्मीध्यानं समाप्तम्।
-------०---------
Comments
Post a Comment