श्रीसूर्यस्तवः
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
**************
(१)
मृदुरक्तकरैर्मधुसिक्ततनुं
सितशक्तशरीरधरं मिहिरम्।
दिवसान्तसुकान्तसुकान्तियुतं
प्रणमामि रविं भवभीतिहरम्।।
(२)
विधिविष्णुमहेशतनुं दधतं
क्षितिसर्जनपालननाशपटुम्।
सुरमानववन्दितपादयुगं
प्रणमामि रविं भवभीतिहरम्।।
(३)
दिवसान्तकरं दिवसादिकरं
कुनिशान्तकरं सुखशान्तिकरम्।
दिनबान्धवसुन्दरमाद्यगुरुं
प्रणमामि रविं भवभीतिहरम्।।
(४)
उदयाचलचंचलकालकलं
करबालकरं बलदानकरम्।
कलिकाकुललासकमब्जवरं
प्रणमामि रविं भवभीतिहरम्।।
(५)
खगहारयुतं कुसुमैर्ललितं
रजनीचरवारकवारपतिम्।
विमलातुलमण्डलविश्वगृहं
प्रणमामि रविं भवभीतिहरम्।।
(६)
जनरंजनकारकमिन्द्रसखं
भयभंजनकारणमांजनिहम्।
करमण्डलमंजुलमंजरभं
प्रणमामि रविं भवभीतिहरम्।।
(७)
जलपानकरं करदानकरं
जलपुत्रकरं कलधौतरथम्।
जगतो नयनं द्विविधायनकं
प्रणमामि रविं भवभीतिहरम्।।
(८)
जय सुन्दरकन्दरिमन्दिर हे
जय भावुकसेवकभव्यद हे।
जय भक्तमनोरथसाधक हे
प्रणमामि रवे ! तव पादयुगे।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीसूर्यस्तवाष्टकं समाप्तम्।
-------०---------
Comments
Post a Comment