श्रीसूर्यार्घ्याष्टकम्
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
**************
(१)
प्रभातकालेरुणकान्तिधारी
ग्रहौघदण्डस्य विखण्डकारी।
प्रशान्तरूपी जनकामदायी
तं नौमि सूर्यं प्रददामि चार्घ्यम्।।
(२)
राजीवनाथः कुसुमप्रकाशः
पिण्डीरभासः परिदीप्तरूपः।
जपाप्रियः शोणितवर्णवेश
स्तं नौमि सूर्यं प्रददामि चार्घ्यम्।।
(३)
मध्याह्नकाले बहुदीप्तिकारी
प्रचण्डतेजा रिपुदर्पहारी।
करालभावात् कलिकालरूपी
तं नौमि सूर्यं प्रददामि चार्घ्यम्।।
(४)
सायं सदा सुन्दरकान्तिशाली
सिन्दूरबिन्दूपमरूपधारी।
समस्तबाधाभयदुःखहारी
तं नौमि सूर्यं प्रददामि चार्घ्यम्।।
(५)
त्रिदुःखहन्ता त्रिगुणैककर्त्ता
त्रिरूपधर्त्ता त्रिपुरस्य भर्त्ता।
त्रिभावदाता त्रिसुरस्य देही
तं नौमि सूर्यं प्रददामि चार्घ्यम्।।
(६)
शाम्बाङ्गरोगक्षयकारको यः
समग्रजीवोदयपालनेशः।
आरोग्यदाता भवसिन्धुपोतः
तं नौमि सूर्यं प्रददामि चार्घ्यम्।।
(७)
ज्योतिष्पतिं शान्तिकरं दिनेशं
त्रितापतापं ग्रहराजराजम्।
सिद्धिप्रदं देवजनर्षिसेव्यं
तं नौमि सूर्यं प्रददामि चार्घ्यम्।।
(८)
यस्य प्रकाशेन विभाति पृथ्वी
जीवाः समस्ताः सुखिनो भवन्ति।
मत्कामसिद्धिं स ददातु नित्यं
तं नौमि सूर्यं प्रददामि चार्घ्यम्।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीसूर्यार्घ्याष्टकं समाप्तम्।
-------०---------
Comments
Post a Comment