श्रीशिवषोडशोपचारपूजा
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
****************
(१. क) आवाहनम्
आवाहनं ते कुसुमैर्महेश!
करोमि पूजास्थलमत्र देव!।
आगच्छ तृप्त्या मम कामसिद्ध्यै
पूजान्तकालं ससुखं समास्स्व।।
(ख) आसनम्
देवाधिदेव त्रिपुरान्तकारिन्!
जानामि नो नाथ! तवासनं किम्।
हृदासनं मे प्रददामि पुष्पै
आस्स्वेश्वर ! क्षेमकरो भव त्वम्।
(ग) पादासनम्
पादासनं ते विरचय्य रम्यं
ददामि मृत्युञ्जय! दिव्यपद्भ्याम्।
संस्थापय प्रीतमनो महेश!
सदा सुखं मे कुशलं ददस्व।।
(२) स्वागतम्
हे पार्वतीनाथ महेश शम्भो!
सुस्वागतं स्वागतमत्र देव!।
करोमि पूजां तव तृप्तयेहं
प्रदाय पुष्पाणि नमामि भक्त्या।।
(३) पाद्यम्
सुशीतलं तीर्थजलं पवित्रं
समाहृतं पादकृते तवेदम्।
गृहाण कैलासपते! ददामि
सुकर्मराशिं सततं प्रदेहि।।
(४) अर्घ्यम्
शुद्धेन गन्धेन जलेन पुष्पैः
पूताक्षतैः संस्कृतमर्घ्यमेतत्।
गृहाण शैलेशसुताहृदीश!
नमामि मह्यं कुशलं ददस्व।।
(५) आचमनीयम्
प्रसिद्धतीर्थाद् वदनविशुद्धै
देव! त्वदर्थं सलिलं गृहीतम्।
प्रीत्या प्रभो ! स्वाचमनं कुरुष्व
मनोभिलाषं मम पूरय त्वम्।।
(६) मधुपर्कम्
आच्छादितं पात्रवरे सुकांस्य
आज्येन दध्ना मधुना प्रमेल्य।
ददामि तत्ते मधुपर्कमिष्टं
मत्कामसिद्धिं कुरु भालचन्द्र!।।
(७) पुनराचमनम्
मन्त्रैः पवित्रं सरितो गृहीतं
सुगन्धियुक्तं सलिलं हिमाढ्यम्।
प्रभो! पुनः स्वाचमनं कुरुष्व
गौरीपते ! देहि मदीयकामम्।।
(८. क) पञ्चामृतस्नानम्
धेनोर्गृहीतं दधिदुग्धसर्पिः
तस्मिन् प्रयुक्तं मधुमिष्टवस्तु।
पञ्चामृतं मन्त्रबलेन पूतं
गृहाण पञ्चानन ! देहि भाग्यम्।।
(ख) स्नानम्
गङ्गादिनद्याः सलिलं गृहीत्वा
तत्र प्रयुक्तं बहुगन्धतत्त्वम्।
हिमं सुवासं ससुखं गृहाण
स्नात्वा सुखं शंकर! यच्छ नित्यम्।।
(९. क) वस्त्रम्
किम्भूतवस्त्रं कटिभूषणार्थं
दास्यामि जानामि न तुभ्यमेव।
महेश्वर! त्वं ककुभम्बरत्वाद्
दिशो ददे पार्श्वगताः क्षमस्व।।
(ख) उत्तरीयम्
मशेश! जाने न तवोत्तरीयं
कृष्णाजिनं देव! तथापि तुभ्यम्।
ददे गृहीत्वा नितरां प्रसन्नो
भव प्रदेहि प्रणमामि सौख्यम्।।
(ग) यज्ञोपवीतम्
शुभ्रांशुधारिन् ! बहुशुभ्ररूपं
यज्ञोपवीतं कमनीयसूत्रम्।
स्कन्धे पवित्रं परमं ददामि
सुमङ्गलं देहि सदा नमामि।।
(१०) आभरणम्
रुद्रक्षमालां रजतेन्दुखण्डं
सुभस्म सर्पान् मनसा ददामि।
गृहाण पुष्पैः परिभूषयाङ्गं
शम्भो ! हृदाशां मम देहि नौमि।।
(११. क) गन्धः
शम्भो! सुवासं मलयाद्रिजातं
हिमाद्रिजातासलिलेन घृष्टम्।
देहे त्वदीये परिलेपनार्थं
गन्धं ददे स्वीकुरु पाहि नित्यम्।।
(ख) सिन्दूरम्
बालार्कशोभां परिनिन्द्यमानं
गव्येन सिक्तं रमणीयरूपम्।
सिन्दूरबिन्दुं तव भालभागे
ददामि शम्भो! कृपया गृहाण।।
(१२. क) पुष्पम्
पुष्पाणि नानागुणपूरितानि
रम्याणि वर्णैर्बहुवासितानि।
पद्मानि मृत्युञ्जय! भूषणार्थं
ददे दयां देहि सदा महेश!।।
(ख) बिल्वपत्रम्
मालूरपत्राणि सुवासितानि
गन्धेन सिक्तानि मनोहराणि।
त्वत्प्रीतये रुद्र ! ददामि मन्त्रै
र्गृहाण कामं मम देहि नित्यम्।।
(१३) धूपः
रसं महावृक्षचयात् सयत्नं
संगृह्य धूपो विहितो मयाद्य।
ददामि भक्त्या तव नासिकायै
शान्तिं प्रदेहि प्रणमामि शम्भो!।।
(१४) दीपः
पिनाकपाणे! मुखदीपनाय
प्रदीप्तदीपं घृतवर्त्तिकाढ्यम्।
ददामि ते स्वीकुरु विश्वनाथ !
नित्यं कुलं दीपय नौमि पादौ।।
(१५. क) नैवेद्यम्
ऋत्वानुसारं फलितानि यानि
पक्वानि मिष्टानि च नारिकेलम्।
रम्भाफलं त्रम्बक! ते ददामि
नैवैद्यमिष्टं कृपया गृहाण।
(ख) अन्ननैवेद्यम्
सुमिष्टमन्नं बहुव्यञ्जनाढ्यं
सुपायसं चर्वणयोग्यखाद्यम् ।
लेह्यं च पेयं रसपूर्णपूपं
महेश ! भोगं ससुखं गृहाण ।।
(ग) चण्डवलिः
चण्डीश्वराराधनशान्तचित्तः
चण्डप्रियो मण्डितदिव्यभावः।
चण्डेश्वर ! त्वं भज चण्डभागं
पूजान्तकाले प्रददामि भोगम्।।
(घ) ताम्बूलम्
एलां लवङ्गं खदिरंं च पूगं
जीरादिकं भूतपते ! प्रमेल्य।
ताम्बूलपत्रेण ददामि तुभ्यं
गृहाण मृत्युंजय! पाहि नित्यम्।।
(१६. क) वन्दनम्
शम्भो पिनाकिन् त्रिपुरान्तकारिन्
महेश्वर त्र्यम्बक विश्वनाथ ! ।
त्वया विना नो मम कः सहायो
रक्षस्व नित्यं शरणं प्रयामि।।
(ख)आरात्रिकम्
कर्पूरखण्डं ज्वलनेन युक्तं
विभाति सर्वत्र महापवित्रम्।
संस्थाप्य पात्रे परिघूर्णयामि
नीराजनं स्वीकुरु देव ! नौमि।।
(ग) पुष्पांजलिः
पुष्पाणि नानागुणपूरितानि
सुवासयुक्तानि मनोहराणि।
शुभाक्षतैस्तानि समर्पयामि
पुष्पांजलिं स्वीकुरु विश्वनाथ!।।
इति व्यासकवि - ज्ञानज्योतिः -
कविरश्मि - ध्यानसम्राट् - पण्डित -
श्रीव्रजकिशोरत्रिपाठि - विरचिता
श्रीशिव - षोडशोपचारपूजा समाप्ता।
-------------++++++++++---------------
Comments
Post a Comment