श्रीकनकदुर्गावन्दनम्
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
*******************
(१)
महारम्ये स्थाने विविधबुधयुक्ते द्विजवृते
स्तवैर्मन्त्रैः पूते निवसति मुदा या सुरगृहे।
दयाविद्यासंचिद्-वितरणरता चारुवदना
महामाया माताऽवतु कनकदुर्गा त्रिनयना।।
(२)
शिरोभागे यस्या मणिमयकिरीटं विलसति
तनौ यस्यास्तेजस्तपनकररूपं कलयति।
मुखज्योतिर्यस्या-स्त्रिभुवनजनाशां जनयति
सदा तृप्ता रम्याऽवतु कनकदुर्गा स्मितमुखी।।
(३)
करे खड्गो यस्याः शरसहितचापोऽपरकरे
मुखे हासो दिव्यो दलितदनुपुत्रः पदतले ।
सदा भक्तत्राण-प्रमुदितमनाः पद्मनयना
महादेवी सर्वानिह कनकदुर्गा समवतु ॥
(૪)
पूजान्ते विविधैः सुघोषसहितै-र्वाद्यैर्महासुन्दरै
र्लोकानां भजनैः प्रदीपनिचयै-र्भूदेवमन्त्रस्वरैः ।
कर्पूराग्निसमर्च्चनं भवति वै यस्याः पदाब्जाच्चिरं
नित्यं तां परमेश्वरीं कनकभां दुर्गां भजे सर्वदाम् ॥
(५)
अर्काग्निन्दु विभाति नेत्रनिचये यस्याः शशी मस्तके
दिव्यास्त्रं च भुजे सुचापसहितं वक्त्रेऽतिक्रोधानलः ।
नानापातकतापपातनकरी या दैत्यसंमर्दनी
नित्यं भक्तविनोदिनीं कनकभां दुर्गां भजे सर्वदाम्।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीकनकदुर्गाध्यानपञ्चकं समाप्तम्।
-------०--------
Comments
Post a Comment