गणपतिध्यानम्
श्रीगणपतिध्यानमाला-:
(१)
खण्डत्काण्डिरवं प्रचण्डभयदं यन्मुण्डशुण्डं मुहुः
दृष्ट्वा नष्टवलिष्ठदुष्टचरितारिष्टं विनष्टं गतम्।
दोर्दण्डद्वयदण्डितातिदुरितो मार्तण्डचण्डप्रभः
तच्छुण्डेन विखण्ड्य दण्डमवतु ब्रह्माण्डभाण्डस्य नः।।
(२)
व्याघातौघस्य निघ्नो निघनधनघनो घण्टिकाघण्टकण्ठो
विस्तीर्णाकारकर्णो वनवनजमनाः पापतापप्रहन्ता।
दाता पाताखिलानां विजयकलयिता भद्रभावस्य भर्त्ता
धीध्वान्तध्वंसदक्षो धृतिधनसुधियो रातु शं श्रीगणेशः।।
(३)
निघ्नः कुत्स्नभयस्य सादरमहो विघ्नप्रदोपि द्विषां
मग्नश्चैव निरन्तरं श्रुतिततौ लग्नः सुखे संपदि।
भग्नो येन मनोरथो निजरुचा ब्रध्नस्य तेजःपतेः
नूत्नज्ञाननिधिं ददातु सदयो नग्नप्रभोर्नन्दनः॥
(४)
विघ्नोत्तापविनाशनाय जलदो विघ्नासुरायान्तको
विघ्नाम्भोधरवारणाय पवनो विघ्नाब्धये कुम्भभूः।
विघ्नक्ष्मारुहखण्डनाय परशुर्विघ्नाग्नये वारिदो
विघ्नाम्भोजविमर्दनाय रदनी तं स्तौमि विघ्नेश्वरम्।।
(५)
स्थूलः शान्तमना विशालजठरो यो बुद्धिदाता स्वयं
यन्नामस्मरणेन यान्ति विपदः सर्वाग्रवन्द्योपि यः।
विद्यादानपरायणः शुभकरः संसारदुःखापहो
वन्दे श्रीगणनाथनाथमनिशं तं विघ्ननाथं सदा।।
इति व्यासकवि-कविरश्मि-ध्यानज्योतिः
पण्डित-श्रीव्रजकिशोरत्रिपाठिविरचिता
श्रीगणपतिध्यानमाला समाप्ता।
-------०---------
Comments
Post a Comment