देवताजपः

त्रिदेवध्यानत्रयम्
*************
(१)
सावित्रीमाम्बिकाभिर्मुनिविबुधगणैर्वेदचक्रत्रिशूलै
राजन्ते ये जगत्या दरदुरितहराः सर्वसौभाग्यशक्ताः।
रक्तश्यामार्ज्जुनाङ्गाः सुखशुभमतिदा जन्मरक्षाक्षयाक्षा
हंसाहिद्विड्वृषाढ्या द्रुहिणहरिहराः पान्तु नित्यं नमामि।।
(२)
रजःसत्त्वध्वान्तत्रिगुणलसिता रूपललिता
जगज्जन्मारक्षाक्षयकृतियुता लालनरताः।
महाहंसाहिद्विड्वृषभगमनाः सर्वशुभदा
स्त्रिदेवा नः प्रीत्या विधिविधुभवाः पान्तु सततम्।।
(३)
शान्तः शूलविभूषितः शुभकरः सण्डेश्वरः श्वेतभः
स्रष्टा सृष्टिमहागृहं सुरवरो हंसाधिपो रक्तभः।
सर्वेष्टस्य सुसाधकः सुखकरस्तार्क्ष्यप्रभुः श्यामभः
पातु स्तौमि सदा प्रसन्नमनसा शम्भुः स्वयम्भुः स्वभूः।।

  इति व्यासकवि-कविरश्मि-ध्यानज्योतिः      
   पण्डित-श्रीव्रजकिशोरत्रिपाठिविरचितं 
          त्रिदेवध्यानत्रयं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा