श्रीगणपतिषोडशोपचारपूजा
श्रीगणपतिषोडशोपचारपूजा
प्रणेता
व्रजकिशोरत्रिपाठी
**************
(१. क) आवाहनम्
हेरम्ब लम्बोदर विघ्नराज
हे पार्वतीपुत्र महेन्दुरेश!।
आवाहनं ते कुसुमैः करोमि
पूजास्थलं देहि शुभं प्रविश्य।।
(ख) आसनम् -:
दिव्यासनं सुन्दरमूषचिह्नं
कुशैः पवित्रं कुसुमैः प्रपूर्णम्।
आस्स्व प्रभो! संकलितं मयेदं
गणेश! विघ्नं मम खण्डय त्वम्।।
(ग) पादासनम् -:
पीठं महार्घं मृदुवस्तुयुक्तं
पुष्पैर्विकीर्णं विवुधातिकाम्यम् ।
संस्थापयांघ्रिद्वयमग्रपूज्य
गणेश! शान्तिं नितरां प्रयच्छ ।।
(२) स्वागतम् -:
जाने न तत्त्वं तव मन्त्रगीतं
पूजाविधानं विबुधोक्तमुद्राम् ।
तथापि षड्भिः कुसुमैः करोमि
सुस्वागतं बुद्धिपते गणेश! ।।
(३) पाद्यम् -:
सुशीतलं गन्धमयं पवित्रं
तोयं त्वदर्थं यतनैर्गृहीतम् ।
ददामि पाद्याय मुदा गृहाण
गजेन्द्रवक्त्र! प्रददस्व तत्त्वम् ।।
(४) अर्घ्यम् -:
गन्धप्रसूनाक्षतयुक्तमर्घ्यं
कृतं सुरम्यं विधिना त्वदर्थम्।
गृहाण लम्बोदर बुद्धिदातः!
शान्तिं प्रदेहि प्रणमामि नाथ!।।
(५) आचमनीयम् -:
गङ्गाजलेनागुरुणा त्वदर्थं
गन्धेन युक्तं रचितं गणेश!।
ददामि पूताचमनं गृहाण
मुखातिशुद्धिं ससुखं कुरुष्व।।
(६) मधुपर्कम् -:
घृतेन दध्ना मधुना त्वदर्थं
कृतं विशिष्टं मधुपर्कमिष्टम्।
दन्तिन्! ददे ते वदनारविन्दे
प्रदेहि भाग्यं हर सर्वविघ्नम्।।
(७) पुनराचमनम्
गङ्गादितोयैः परिपूर्णपात्रं
तस्माज्जलं गन्धयुतं सुवासम्।
ददे पुनः स्वाचमनं कुरुष्व
बुद्धिं प्रशान्तिं गणप! प्रयच्छ।।
(८.क) पञ्चामृतस्नानम्
दुग्धेन दध्ना मधुना घृतेन
सितान्वितं दर्भजलेन युक्तम्।
पञ्चामृतं देवगणातिकाम्यं
स्नानाय तुभ्यं प्रददे गृहाण।।
(ख) जलस्नानम्
महानदीभ्यः सलिलानि सिन्धोः
संगृह्य तीर्थात् प्रददे गणेश!।
स्नात्वा प्रशान्तो भव तैः पवत्रैः
सुखं जयं मे नितरां प्रदेहि।।
(९. क) वस्त्रम्
त्वद्देहशोभापरिवर्द्धनाय
सुश्वेतवस्त्रं रचितं महार्घम्।
गृहाण हेरम्ब! कटिप्रदशे
ददस्व मह्यं सकलं सुभाग्यम्।।
(ख) उत्तरीयम्
देहस्य शोभापरिवर्द्धनाय
रम्योत्तरीयं प्रददामि तुभ्यम्।
गृहाण चित्रं महदेकदन्त!
ददस्व मह्यं सततं सुखानि।।
(ग) यज्ञोपवीतम्
यज्ञोपवीतं परमं पवित्रं
ददामि तुभ्यं गणनाथ! भव्यम्।
स्कन्धे त्वदीये ससुखं गृहाण
मनो मदीयं कुरु पूतभावम्।।
(१०) आभरणम् -:
माणिक्यवैदूर्यसुवर्णमुक्ता-
प्रबालयुक्तानि विभूषणानि।
न सन्ति मे ते तनुभूषणार्थं
सुपुष्पहारान् प्रददे गृहाण।।
(११. क) गन्धः -:
हे विघ्नराज! त्रिपुरस्य पूज्य!
त्वदङ्गभागे परिलेपनाय।
सुवासयुक्तं सुरवृन्दकाम्यं
ददामि गन्धं परिभूषयाङ्गम्।।
(ख) सिन्दूरम् -:
गणेश विघ्नेश गजानन! त्वं
विघ्नानि मे नाशय नौमि नित्यम्।
सिन्दूरलेपं नितरां कपाले
करोमि हेरम्ब मुदा गृहाण।।
(१२) पुष्पम् -:
विभिन्नवर्णानि मनोहराणि
पुष्पाणि वासैः परिपूरितानि।
शरीरशोभाबहुवर्द्धनाय
ददामि लम्बोदर! धारय त्वम्।।
(१३) धूपः -:
वनस्पतिभ्यः सुरसं सुगन्धं
संगृह्य लम्बोदर! दिव्यधूपम्।
ददे त्वदग्रे बहुसौरभाय
गृहाण मह्यं कुशलं ददस्व।।
(१४) दीपः -:
सुवर्त्तिकाढ्यं सुशिखां वहन्तं
गव्येन पूर्णं रमणीयदीपम्।
ददामि लम्बोदर! ते मुखाग्रे
प्रदीप्तबुद्धिं सततं ददस्व।।
(१५. क) नैवेद्यम् -:
इक्षुं कपित्थं कदलीं च पूपं
सुमोदकं सुन्दरनारिकेलम्।
नैवेद्यभोगं प्रददामि नाथ!
विनायक ! त्वं कृपया गृहाण।।
(ख) अन्ननैवेद्यम्
सुमिष्टमन्नं बहुव्यञ्जनाढ्यं
सुपायसं चर्वणयोग्यखाद्यम् ।
लेह्यं च पेयं रसपूर्णपूपं
गणेश ! भोगं ससुखं गृहाण ।।
(ग) चण्डवलिः
लम्बोदरप्रीतिकरो वरेण्य
स्तत्सेवकः पार्श्वचरेषु सारः।
देवप्रियो ज्ञानमयः सुशीलः
कुण्डोदर! त्वं नय चण्डभागम्।।
(घ) ताम्बूलम् -:
ताम्बूलपत्रं हरितं सुरम्यं
लवङ्गपूगांशहिमादियुक्तम्।
त्वन्मुखशुद्ध्यै प्रददे गणेश!
मज्ज्ञानसिद्धिं नितरां कुरुष्व।।
(१६. क) वन्दनम् -:
हे विघ्नसंहारक दीप्तमूर्त्ते
हे शेमुषीदायक दिव्यकान्ते !।
नमामि भक्त्या हर मन्दभावं
प्रदेहि विद्यां शरणं प्रपद्ये।।
(ख) आरात्रिकम्
कर्पूरखण्डं ज्वलनेन युक्तं
पुरस्त्वदीये परिघूर्ण्यमाणम्।
आरात्रिकं देव समर्पयामि
हेरम्ब ! बुद्धिं नितरां प्रदेहि।।
(ग) पुष्पांजलिः
पुष्पाणि नानागुणपूरितानि
शुभ्राणि लोकस्य मनोहराणि।
हेरम्ब तैस्ते प्रददे प्रणम्य
पुष्पांजलिं स्वीकुरु देहि शान्तिम्।।
इति व्यासकवि - ज्ञानज्योतिः -
कविरश्मि - ध्यानसम्राट् - पण्डित -
श्रीव्रजकिशोरत्रिपाठि - विरचिता
श्रीगणपति - षोडशोपचारपूजा समाप्ता।
-------------++++++++++---------------
Comments
Post a Comment