श्रीमङ्गलाध्यानम्
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
***************
(१)
विद्युद्दीप्तिविनन्दिता द्युमणिभा-दिव्यद्युतिद्योतिता
शङ्खाब्जादिकरा निशापतिधरा नित्या धराराधिता।
वह्निब्रध्नशशीन्द्रिया भयहरा भक्तप्रमोदप्रदा
पायात्पालनलालनादिचरिता विश्वाम्बिका मङ्गला॥
(२)
सिन्दूराशोभमानां दरकमलकरां रक्तवस्त्रां त्रिनेत्रां
मन्दाराभां सुवेशां सुललित लपनां मन्दहासां सुकेशाम्।
वन्द्यां वृन्दारकाणां दलितभयचयां सर्वदानन्दमूर्त्तिं
भक्ताह्लादैककेन्द्रां भव विभवभरां मङ्गलां त्वां नमामि॥
(३)
पादे नूपुरभूषितां कटितटे दिव्याम्बरालंकृतां
कण्ठे हारविलम्बितां मुखपटे कोट्यर्कभाशोभिताम्।
बाहौ केयूरराजितां भुजयुगे नानाविभूषान्वितां
वन्दे तां वरदायिनीं भगवतीं भाग्यप्रदां मङ्गलाम्॥
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीमङ्गलावन्दनं समाप्तम्।
-------०--------
Comments
Post a Comment