श्रीसरस्वतीषोडशोपचारपूजा
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
***********************
(१. क) आवाहनम्
हे विष्णुबाले निगमादिलीले !
कुबुद्धिसंन्दोहविनाशशीले !।
आवाहयामि स्थलमत्र पुष्पैः
पूजां करोमि तव तृप्तयेहम् ।।
(ख) आसनम्
श्वेतारविन्दासनभासमाने
हृदारविन्दासनविद्यमाने !।
सिंहासने शुक्लसरोजयुक्ते
समास्व भाषे ! प्रददामि भक्त्या ।।
(ग) पादासनम्
पादारविन्दद्वयशोभनाय
ददामि पद्मं कमले ! विनम्रम् ।
संस्थापय ब्राह्मि ! सुखाय तस्मिन्
ज्ञानं समस्तं सततं प्रयच्छ ।।
(२) स्वागतम्
करोमि ते स्वागतमादिरूपे !
पुष्पाणि धृत्वा शशिकान्तिदेहे !।
आगच्छ पूजां ससुखं गृहाण
समस्तसिद्धिं कुरु बुद्धिदात्रि !।।
(३) पाद्यम्
सुशीतलं गाङ्गजलं पवित्रं
गन्धेन मिश्रं कुसुमप्रयुक्तम् ।
ददामि भाषे ! पदधावनाय
गृहाण मातः ! कुशलं ददस्व ।।
(४) अर्घ्यम्
दूर्वाक्षतैर्गन्धजलं प्रमेल्य
कृतं मयार्घ्यं तव मोदनाय ।
प्रीत्योपचारं प्रददामि तुभ्यं
गृहाण गिरां जनयित्रि ! पूतम् ।।
(५) आचमनीयम्
सुशीतलं गन्धजलं सुवासं
सम्पादितं ते मुखशोधनाय ।
प्रीत्या ददे स्वाचमनं कुरुष्व
ज्ञानामृतं मे सततं प्रयच्छ ।।
(६) मधुपर्कम्
कांस्ये सुपात्रे परमोपचारं
ददामि तुभ्यं मधुपर्कमिष्टम् ।
गृहाण सन्तोषकरं पवित्रं
सरस्वति ! त्वां प्रणमामि नित्यम् ।।
(७) पुनराचमनम्
समाहृतं तीर्थततेः सुशैत्यं
नवीनतोयं परिशुद्धमन्त्रैः ।
ददे पुनः स्वाचमनं कुरुष्व
हे वाणि ! विद्यां नितरां प्रयच्छ ।।
(८. क) पञ्चामृतस्नानम्
दुग्धेन दध्ना मधुना घृतेन
सितेन कृत्वा परमं पवित्रम् ।
पञ्चामृतं देवि ! ददामि तुभ्यं
स्नात्वा ममेष्टं सफलं कुरुष्व ।।
(ख) स्नानम्
गङ्गापयोष्णीदिननाथपुत्री-
गोदावरीपुण्यजलानि मातः !।
संगृह्य ते स्नानविधिं करोमि
भव प्रसन्ना प्रणमामि नित्यम्।।
(९.क) वस्त्रम्
सुश्वेतवर्णं रमणीयरूपं
शुभ्रांशुभं मन्त्रबलेन पूतम् ।
आच्छादनार्थं तव देहभागे
गृहाण कट्यां बहुबुद्धिदात्रि !।।
(१०) आभरणम्
मणिक्यमुक्तारजतप्रबाल-
वैडूर्ययुक्तानि मनोहराणि ।
ददामि हृद्याभरणिनि तुभ्यं
स्वाङ्गैर्मुदैतानि गृहाण मातः!।।
(११. क) गन्धः
श्वेताभगन्धं सलिलेन घृष्टं
मन्त्रेण पूतं बहुवासपूर्णम् ।
ददामि ते भालपटे दयाब्धे !
विनाशयाऽज्ञानभयं सदा मे ।।
(ख) सिन्दूरम्
उद्यद्दिवेशाभसमं सुवर्णं
सिन्दूरविन्दुं तव भालभागे ।
सीमन्तदेशे परिलेपयामि
गृहाण वागीश्वरि ! देहि बुद्धिम् ।।
(१२) पुष्पम्
श्वेताभपुष्पं तगरं च कुन्दं
मल्लिं सिताब्जं रमणीयवासम् ।
गृहाण मातः ! परिमण्डयामि
वाग्देवते ! वाग्विभवं ददस्व ।।
(१३) धूपः
वनस्पतीनां रससारवस्तु
गन्धान्वितं घ्राणसुखप्रदं च ।
संगृह्य धूपं प्रविधाय देवि !
ददे मुदा स्वीकुरु पाहि नित्यम् ।।
(१४) दीपः
ज्योतिःप्रदं मञ्जुलवर्त्तिकाढ्यं
चन्द्रार्कवैश्वानरतुल्यदीपम् ।
मुखारविन्दे परिदर्शयामि
गृहाण वीणाध्वनिशोभमाने !।।
(१५. क) नैवेद्यम्
फलानि पक्वानि सुमिष्टकानि
रम्भाफलं मञ्जुलनारिकेलम् ।
सुश्वेतलाजान् सितशर्कराढ्यान्
नैवेद्यमानन्दकरं गृहाण ।।
(ख) अन्ननैवेद्यम्
सुमिष्टमन्नं बहुव्यञ्जनाढ्यं
सुपायसं चर्वणयोग्यखाद्यम् ।
लेह्यं च पेयं रसपूर्णपूपं
हे वाणि ! भोगं ससुखं गृहाण ।।
(ग) चण्डवलिः
सखी त्वदीया सहचारिणी या
या तेऽनुषङ्गा सुखसाधनी या ।
तस्यै मुदा चण्डवलिं सुभोगाद्
ददामि भाषे ! तव तृप्तयेहम् ।।
(घ) ताम्बूलम्
रसाढ्यपत्रं खदिरेण युक्तं
चूर्णावलिप्तं जीरकादिपूर्णम् ।
गूवाकयुक्तं रमणीयरूपं
ताम्बूलमेतत् कृपया गृहाण ।।
(१६. क) वन्दनम्
हे हंसयाने सुरसेव्यमाने
मनीषिमाने समशास्त्रगाने !।
वीणातिलीने हरिनामगाने
नमामि नारायणि ! पादयुग्मे।।
(ख)आरात्रिकम्
शान्तिप्रदं वह्नियुतं शिखाढ्यं
गन्धान्वितं दीप्तिमयं गुणाढ्यम् ।
आरात्रिकं भारति ! संददामि
प्रीत्या सुखार्थं नितरां गृहाण ।।
(ग) पुष्पांजलिः
संगृह्य पुष्पाणि मनोहराणि
पुष्पाञ्जलिं तैर्विनतं ददामि ।
पूजान्तकाले तव तृप्तिहेतुं
गृहाण मातः ! सुदयां कुरुष्व ।।
इति व्यासकवि - ज्ञानज्योतिः -
कविरश्मि - ध्यानसम्राट् - पण्डित -
श्रीव्रजकिशोरत्रिपाठि - विरचिता
श्रीसरस्वतीषोडशोपचारपूजा समाप्ता।
-----------------------०--------------------
Comments
Post a Comment