श्रीजगन्नाथपञ्चकम्
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
****************
(१)
नीलाचले सूत्कलभूमिभागे
रत्नासने सागरतीरदेशे ।
विराजमानं जलजाक्षरूपं
चेत ! र्जगन्नाथपदं भजस्व ॥
(२)
वामेतरे यस्य च भद्रभद्रे
वामे सदा सागरजा च भाषा।
मध्ये लसन्तं घनकृष्णरूपं
चेत ! र्जगन्नाथपदं भजस्व ॥
(३)
गृहांगने यस्य समस्तदेवा
भजन्ति नित्यं निजकामसिद्ध्यै ।
तं विश्वतातं जगदेकरूपं
चेत ! र्जगन्नाथपदं भजस्व ॥
(૪)
पापं निहन्तुं जगतोखिलस्य
प्रसार्य हस्तौ सततं विभान्तम् ।
विराजराजं भवतापनिघ्नं
चेत ! र्जगन्नाथपदं भजस्व ॥
(५)
हृत्वातिपापं पृथिवीजनानां
बभार मालिन्यमयं शरीरम् ।
तं कृष्णकायं जनमोक्षदं च
चेत ! र्जगन्नाथपदं भजस्व ॥
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीजगन्नाथपञ्चकं समाप्तम्।
-------०---------
Comments
Post a Comment