नवग्रहावाहनम्
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
******************
नवग्रहाणाम् -:
नवग्रहान् साधिसुरान् सहाङ्गान्
दूतान्वितान् प्रत्यधिदेवयुक्तान्।
आवाहयामि प्रणमामि भक्त्या
ते मण्डलेस्मिन् प्रमुदा विशन्तु।।
(१) श्रीरवेः -:
आवाहयामि ग्रहराजसूर्यं
शिवाग्नियुक्तं च सहाङ्गदेवम्।
त्वं मण्डलेस्मिन् ससुखं प्रविश्य
नमामि पूजां सफलं कुरुष्व।।
(२) श्रीचन्द्रस्य -:
आवाहयामि ग्रहराजचन्द्रम्
उमाम्बुयुक्तं च सहाङ्गदेवम्।
त्वं मण्डलेस्मिन् ससुखं प्रविश्य
नमामि पूजां सफलं कुरुष्व।।
(३) श्रीमङ्गलस्य -:
आवाहयामि ग्रहराजभौमं
सस्कन्दभूमिं च सहाङ्गदेवम्।
त्वं मण्डलेस्मिन् ससुखं प्रविश्य
नमामि पूजां सफलं कुरुष्व।।
(४) श्रीबुधस्य -:
आवाहयामि ग्रहराजसौम्यं
नारायणेनान्वितविष्णुदेवम्।
त्वं मण्डलेस्मिन् ससुखं प्रविश्य
नमामि पूजां सफलं कुरुष्व।।
(५) श्रीवृहस्पतेः -:
आवाहयामि ग्रहराजजीवं
ब्रह्मेन्द्रयुक्तं च सहाङ्गदेवम्।
त्वं मण्डलेस्मिन् ससुखं प्रविश्य
नमामि पूजां सफलं कुरुष्व।।
(६) श्रीशुक्रस्य -:
आवाहयामि ग्रहराजशुक्रं
सभार्यमिन्द्रं च सहाङ्गदेवम्।
त्वं मण्डलेस्मिन् ससुखं प्रविश्य
नमामि पूजां सफलं कुरुष्व।।
(७) श्रीशनेः -:
आवाहयामि ग्रहराजसौरिं
यमप्रजेशेन च सहाङ्गदेवम्।
त्वं मण्डलेस्मिन् ससुखं प्रविश्य
नमामि पूजां सफलं कुरुष्व।।
(८) श्रीराहोः -:
आवाहयामि ग्रहराजराहुं
कालादियुक्तं च सहाङ्गदेवम्।
त्वं मण्डलेस्मिन् ससुखं प्रविश्य
नमामि पूजां सफलं कुरुष्व।।
(९) श्रीकेतोः -:
आवाहयामि ग्रहराजकेतुं
सब्रह्मदेवं सहचित्रगुप्तम्।
त्वं मण्डलेस्मिन् ससुखं प्रविश्य
नमामि पूजां सफलं कुरुष्व।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
नवग्रहावहनं समाप्तम्।
-------०---------
Comments
Post a Comment