नवग्रहप्रार्थना
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
***********
(१)
आयुर्घस्रकरः शुभं शशधरो वित्तं धरित्रीसुतो
ज्ञानं चन्द्रभवः सुबुद्धिनिकरं वाचस्पतिः शान्तिदः।
शुक्रः शक्रसुखं शनिः धनखनिं राहुश्च बाहुप्रभां
केतू रान्तु हितं नमामि सततं पान्तु प्रमोदान्विताः।।
(२)
स्वास्थ्यं रविः शशधरो हृदयं पवित्रं
भौमो धनं बुधवरः सकलां सुविद्याम्।
बुद्धिं गुरुर्भृगुसुतो विभवं शनिः शं
राहुर्बलं बहुसुखं वितरन्तु केतुः।।
(३)
श्रीमद्घस्रपतिर्विशालविभवं रात्रीपतिर्मित्रतां
भौमो भूतिततिं बुधः सुचरितं विद्यां सुराणां गुरुः।
शुक्रः स्वामिपदं मनोहरतनुं नित्यं शनिः श्यामलो
राहुः सर्वबलं सदा गुणगणं केतुश्च दत्त्वावतु।।
(४)
सूर्यः शौर्यगुणं प्रफुल्लवदनं चन्द्रः सुखं मङ्गलः
सौम्यः शान्तिततिं गुरुः स्थिरमतिः शुक्रो विशालं कुलम्।
आनन्दं च शनैश्चरः प्रतिदिनं राहुः प्रचण्डं बलं
केतुः कीर्तिचयं प्रदाय नितरां रक्षन्तु नः सादरम्।।
(५)
आयू रविः शुभ्रगुणं सुधांशु
र्भौमो धनं ज्ञानगणं बुधश्च।
गुरुः शुभं कीर्त्तिततिं च शुक्रः
शं रातु नित्यं शनिराहुकेतु।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचिता
नवग्रहप्रार्थना समाप्ता।
-------०---------
Comments
Post a Comment