श्रीजगन्नाथाष्टकम्
पं.श्रीव्रजकिशोरत्रिपाठी
***************
(१)
महाम्भोधेः पार्शे रुचिरगिरिशीर्षे सुसदने
महापुर्यां पुर्यां विबुधभरितायां निवसति।
महाभ्राता भग्नी लसति सततं यस्य सविधे।
जगन्नाथस्वामी भजकसुखकामी समवतु।।
(२)
महाचक्रिद्वेषी वहति निजपृष्ठे बहुसुखं
महाचक्रिक्रोडे स्वपिति सततं यो जलनिधौ।
महाचक्रिस्तुत्या फलति मनसो भावनिकरं
जगन्नाथस्वामी भजकसुखकामी समवतु।।
(३)
महानन्दीघोषे भ्रमणसुखलाभाय चलते
महानन्दी घोषे नयति निजचक्षुः प्रतिजनम्।
महानन्दीनाथो नमति चरणौ यस्य ससुखं
जगन्नाथस्वामी भजकसुखकामी समवतु।।
(४)
महालीलाप्रेमी सकलरसकामी पथपटे
महापूपं भोक्तुं त्यजति वसतिं वा नवदिनम्।
महादाण्डेखण्डे चलति सरसं यो जयरवै
र्जगन्नाथस्वामी भजकसुखकामी समवतु।।
(५)
महालक्ष्मीपाकं रसयति न वायं नवरसी
महाभोगं भुक्त्वा विरसवदनो वा प्रतिदिनम्।
महापण्डापूजा किमु भवति नो वा प्रियतमा
जगन्नाथस्वामी भजकसुखकामी समवतु।।
(६)
महाहृद्यो वन्द्यो नियतमनवद्यो गुणगणैः
महापापं हर्त्ता भुवनचयकर्त्तावनकरः।
महानाथोऽनर्थं हरति मनुजानां सकुशलं
जगन्नाथस्वामी भजकसुखकामी समवतु।।
(७)
महायोगी भोगी सकलसुजनः पण्डितगणो
महाकष्टी प्रेष्ठी विषयविकलः सुस्थहृदयः।
महापापी कोपी चरणकमलौ स्तौति सततं
जगन्नाथस्वामी भजकसुखकामी समवतु।।
(८)
महादीनान् हीनान् भरति करुणापूर्णनयनो
महाविज्ञानज्ञान् विनतचरितान् रक्षति मुदा।
महाभक्तव्रातं भवजलधिमध्याद् धरति यो
जगन्नाथस्वामी भजकसुखकामी समवतु।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीजगन्नाथाष्टकं समाप्तम्।
-------०---------
Comments
Post a Comment