श्रीकालिकाध्यानम्
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
*********************
(१)
भिद्याद् दुःखभयं समग्रजगतो दद्याद् दयावारिधिं
छिद्याद् दुष्टधियं प्रसन्नमनसा विद्यात् सुभक्तस्थितिम्।
नद्याद् वाद्यवरं कुकर्महतये नन्द्याद् जनानां मनो
दिव्यात् पुत्रसुतासुखं सुकृपया
साव्यात् सदा कालिका।।
(२)
हृद्या वीरकला करालरसना वेद्यापि तस्याः कृतिः
दद्या भक्तिततिर्हृदोनवरतं भेद्या कुधीः सर्वदा
पद्या तद्गुणपूरिता सुपदवी तोद्या तमस्कामना
नन्द्यानन्दरता विनिन्द्यवदना वन्द्या सदा कालिका।।
(३)
रामा श्यामासिकामा समररसरमा मारमारस्य वामा
धर्मध्यानाविरामा दनुजदरदमा दामिनीदामभीमा।
गीर्वाणत्राणवाणा रणरणचरणा वारणामित्रयाना
कालाकाला कराला कलयतु कुशलं कालिका कालबाला।।
(४)
यस्याः शस्त्रचयेरिमारणकला हास्येस्ति रौद्री कला
जिह्वायां रिपुरक्तरञ्जनकला केशेषु भीतेः कला।
भक्तानां वरदानतारणकला हस्ते सुरक्षाकला
सर्वाङ्गे शमनी कलाऽवतु हि सा काली कराली सदा।।
(५)
पादे पद्मकला गतौ नटकला शीर्षे सुधांशोः कला
वाक्ये वीरकला मुखे रविकला युद्धे च हत्याकला।
क्रोधे ध्वंसकला स्वरे भयकला नेत्रेस्ति वह्नेः कला
देहे कालकला करे वरकला काली सदा पातु सा।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीकालिकाध्यानं समाप्तम्।
-------०--------
Comments
Post a Comment