ग्रहाधिप्रत्यधीष्टदेवताध्यानम्

                            रचयिता
                  पं.श्रीव्रजकिशोरत्रिपाठी
                   ---------------------------

ग्रहाधिप्रत्यधीष्टदेवताध्यानम् -:
(क) ग्रहाधिदेवताध्यानं प्रार्थना
     *********************
(१)
शम्भुं भूतपतिं महोदधिसुतां लक्ष्मीं कुमारं प्रभुं
विष्णुं विश्वपतिं जलात्मजसुतं श्रीब्रह्मदेवं विभुम्।
इन्द्रं स्वर्गपतिं यमं पितृपतिं कालं महाभीषणं
ध्यायेत्तान् शुभदान् ग्रहाधिविबुधान् श्रीचित्रगुप्तं सदा।।
(२)
शम्भुर्ज्ञानततिं हरेः सुगृहिणी वित्तस्य भाण्डं मुदा
स्कन्दो दिव्यबलं महागुणगणं विष्णुः स्वयम्भुः सुतान्
इन्द्रः प्रेम यमश्च घर्ममथकालश्चित्रगुप्तः सुखं
दत्त्वा पान्त्वधिदेवताः सुमनसा नित्यं ग्रहाणां मुदा।।

(ख) ग्रहप्रत्यधिदेवताध्यानं प्रार्थना
      ************************
(१)
अग्निं देवमुखं पवित्रचरिता आपो महाशान्तिदा
भूमिं भूतिधरां जगत्त्रयधरं नारायणं वासवम्।
इन्द्राणीं जनकं प्रजापतिमहिं च ब्रह्मदेवं सदा
ध्यायेत् प्रत्यधिनिर्ज्जरान् सुखकरान् सर्वग्रहाणां मुदा।।
(२)
अग्निः कान्तिगुणं जलं विमलतां पृथ्वी महावैभवं
श्रीनारायण आशिषं सुरपतिः शक्तिं शची मङ्गलम्।
सौभाग्यं सकलं प्रजापतिरथो सर्पाः सुखं शं विधि
र्दत्त्वा प्रत्यधिदेवताः प्रतिदिनं पान्तु ग्रहाणां मुहुः।।

(ग) ग्रहेष्टदेवीध्यानं प्रार्थना
      *****************
(१)
मातङ्गीं भुवनेश्वरीं च बगलां श्रीषोडशीसुन्दरीं
श्रीतारां कमलात्मिकां त्रिनयनां कालीं करालाकृतिम्।
रम्यां छिन्नसुमस्तिकां भगवतीं धूमावतीं धूमभां
सर्वा नौमि नवग्रहावनकराः पान्त्वेष्टदेव्यः सदा।।
(२)
मातङ्गी भुवनेश्वरी च कुशलं सौभाग्यभाण्डं मुदा
सुस्वास्थ्यं बगलामुखी गुणततिं माता च सा षोडशी।
तारा ज्ञाननिधिं समस्तविभवं लक्ष्मीश्च काली बलं
छिन्ना रातु जयं नमामि सततं धूमावती निर्भयम्।‌।

        इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
   ग्रहाधिप्रत्यधीष्टदेवताध्यानं समाप्तम्।
                -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा