श्रीमङ्गलमहाग्रहध्यानानि
रचयिता
श्रीव्रजकिशोरत्रिपाठी
******************
(१)
भारद्वाजकुलोद्भवं क्षितिसुतं सर्वाङ्गरक्तद्युतिं
रक्ताच्छादनभूषितं सुरनुतं रक्ताभपुष्पप्रियम् ।
हस्तैश्चर्मगदासिशक्ति दधतं दिव्यं त्रिकोणस्थितं
श्रीभौमं प्रणमामि रक्तवदनं प्राप्तुं सदा सम्पदम् ।।
(२)
रक्ताभो युवसत्तमोनलसमो वीरो भरद्वाजजो
भूमिप्रत्यधिदैवतः क्षितिसुतः स्कन्दाधिदेवः प्रभुः।
राजन्यो वगलामुखीष्टविबुधः स्वातीभवस्तौलिजो
नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि भौमग्रहम्।।
(३)
भारद्वाजकुलोद्भवं क्षितिसुतं रक्तप्रभासुन्दरं
मेषस्यन्दनगं प्रकाशभरितं सिन्दूरभावन्दितम्।
शक्तं शक्तिधरं करालनयनं रक्ताम्बरेणान्वितं
नत्वाहं नितरां प्रयामि शरणं धारापहं मङ्गलम्।।
(४)
ज्योतिःपुञ्जसमं ज्वलज्ज्वलनभं ज्वाजल्यमानेक्षणं
चण्डं दण्डितशत्रुकाण्डमनिशं दोर्दण्डशक्त्यान्वितम्।
भूमेः पुत्रवरं कुमारमतुलं वीरग्रहं सुन्दरं
भौमं भूतिविभूषितं भवभयं घ्नन्तं भजे सन्ततम्।।
(५)
प्राभातिकारुणसमं रमणीयगात्रं
वह्निप्रभं क्षितिसुतं ज्वलदङ्गवस्त्रम्।
रक्ताभनेत्रयुगलं वरशक्तिहस्तं
भौमग्रहं धनकरं शरणं प्रपद्ये ।।
(६)
विराड्वरेण्यं रुधिराभदेहं
क्रूरेक्षणं सूर्यमुखं प्रदीप्तम्।
धरात्मजं धारहरं युवानं
चतुर्भुजं तं प्रणमामि भौमम्।।
(७)
विद्युन्निभं निन्दितहेमरूपं
वह्निप्रभं लोहितवर्णभासम्।
महाबलं धारहरं कुमारं
भौमग्रहं तं शरणं प्रपद्ये।।
(८)
कुजं भरद्वाजकुलस्य जातं
सिन्दूरवर्णं सुरदैत्यपूज्यम्।
चतुर्भुजं मेषरथं प्रचण्डं
भौमं प्रवन्दे शरणं प्रपद्ये।।
श्रीभौमस्य स्कन्दाधिदेवताध्यानम्-:
(१)
ज्योतिःपुञ्जसमप्रभं शिवसुतं स्वर्गस्य सेनाधिपं
रम्यं निर्जितकांचनं बहुबलं तीक्ष्णास्त्रसंभूषितम्।
क्रौंचप्राणविनाशकं शिखिरथं षण्मातुरं शीघ्रगं
वन्दे तामधिदेवतां कुजमणेः स्कन्दं षडास्यं मुदा।।
(२)
कार्त्तस्वराभं मणिहारयुक्तं
मयूरगं शक्तिधरं बलाढ्यम्।
श्रीभौमवन्द्यामधिदेवतां तां
स्कन्दं शुभार्थं प्रणमामि नित्यम्।।
श्रीभौमस्य भूमिप्रत्यधिदेवताध्यानम्-:
(१)
या देवी सुखदा समस्तजगतः कीर्त्तिप्रदा प्रीतिदा
नानारत्नविभूषिता रसवती सर्वंसहा वीजभू।
लोकागारकृषिप्रभूतविभवप्राण्यादिसंधारिणी
वन्दे प्रत्यधिदेवतां कुजमणेर्भूमिं परामम्बिकाम्।।
(२)
रम्या सुशीला वसुधारिणी या
सर्वंसहा रत्नविभूषिता या।
नमामि भूमिं सुखशान्तिदात्रीं
भौमग्रहप्रत्यधिदेवतां ताम्।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीभौममहाग्रहध्यानं समाप्तम्।
Comments
Post a Comment