श्रीकेतुमहाग्रहध्यानानि
श्रीकेतुमहाग्रहध्यानम्
रचयिता
प.श्रीव्रजकिशोरत्रिपाठी
*****************
(१)
शूद्रं जैमिनिगोत्रजं भयहरं धूम्राम्बरालंकृतं
धूम्राङ्गं विकृताकृतिं ग्रहपतिं गृध्रासनं दुर्मतिम् ।
तारारिं मकरस्वरूपसदनं क्रूरं कुशद्वीपजं
श्रीकेतुं प्रणमामि भीमवपुषं प्राप्तुं प्रतापं सदा ।
(२)
धूम्राभं विकृताकृतिं मुनिसुतं क्रूरं कुशद्वीपजं
शूद्रं रुद्रकलेवरं च कुटिलं धूम्रप्रसूनान्वितम्।
कालाच्छादनभूषितं वरगदासंधारिणं गृध्रगं
नत्वाहं नितरां प्रयामि शरणं केतुग्रहं भीतिदम्।।
(३)
पापात्मा बहुसंख्यकोतिविकृतो धूमप्रभः शूद्रजो
ब्रह्मप्रत्यधिदैवतो मुनिभवो धूमावतीष्टेश्वरः।
योश्लेषाभयुतश्च कर्कटभवः श्रीचित्रगुप्ताधिपो
नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि केतुग्रहम्।।
(४)
आकाशप्रभवः कदा दिवि भवो भूमौ कदा सम्भवो
धूम्रो धूम्रकलेवरो बहुविधो धूम्राम्वरो धूम्रभः।
वृद्धो गृध्ररथश्च शूद्रकुलजो दुर्भिक्षदैन्याधिपो
भक्ताभीष्टकरो गदावरधरः केतुः प्रपातूदयात्।।
(५)
धूम्राम्वरं भुजगमण्डलमण्डनेच्छं
चित्रान्नभोगरसिकं प्रविभक्तकायम्।
तज्जैमिनेः कुलसुतं करवालयुक्तं
केतुग्रहं बहुतनुं शरणं प्रपद्ये ।।
(६)
आलोकरूपो बहुशोकदाता
संख्याधिकः कल्मषरोगधर्त्ता।
यस्योदयाद् बिभ्यति सर्वलोका
स्तं नौमि केतुं परिपातु नित्यम्।।
(७)
धूम्राङ्गवर्णं तनुधूम्रवस्त्रं
धूम्रप्रसूनैः नितरां विभान्तम्।
बहुस्वरूपं भुजगाधिवासं
केतुग्रहं तं शरणं प्रपद्ये।।
(८)
मेघप्रभं जैमिनिगोत्रजातं
गृध्रासनं ब्रह्मसुतं कुवक्त्रम्।
किरीटहारादिविभूषिताङ्गं
केतुं प्रवन्दे शरणं प्रपद्ये।।
श्रीकेतोः चित्रगुप्तकालाधिदेवताध्यानम्-:
(१)
प्रेताधीश्वरसेवकस्त्रिजगतो मृत्योः कथालेखको
जातप्राणिगणस्य सर्वविषयज्ञाता महापण्डितः।
धर्माधर्मविचारकार्यकुशलः संदेशदाता प्रभो
वन्दे तामधिदेवतां शिखिततेः श्रीचित्रगुप्ताख्यकम्।।
(२)
त्रैलोक्यजीवस्य चरित्रविज्ञं
वैवस्वतामात्यवरं सुदक्षम्।
श्रीचित्रगुप्तं वृजिनं वदन्तं
केतोर्भजे तामधिदेवतां च।।
श्रीकेतोः ब्रह्मप्रत्यधिदेवताध्यानम्-:
(१)
विष्णोर्नाभिसहस्रपत्रतनयः कार्त्तस्वराभो द्विजो
वेदज्ञश्चतुराननः सुरवरो यज्ञोपवीतान्वितः।
हंसाधीश्वरवाहनः कमलधृक् पद्मासनो ब्रह्मविद्
वन्दे प्रत्यधिदेवतां शिखिमणेः श्रीब्रह्मदेवं मुदा।।
(२)
सरोजजातं कुशवेदहस्तं
चतुर्मुखं रक्तनिभं सुदीप्तम्।
श्रीब्रह्मदेवं सुरदैत्यसेव्यं
केतोर्भजे प्रत्यधिदेवतां ताम्।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीकेतुमहाग्रहध्यानं समाप्तम्।
-------०---------
Comments
Post a Comment