श्रीविश्वकर्मणो ध्यानानि
श्रीविश्वकर्मध्यानमाला।
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
(१)
शिल्पानां जनकः समग्रजगतः प्रासादकर्त्तापि यो
विशंवात्मा सुरलोकमर्त्त्यभुवनस्रष्टा महायान्त्रिक।
यस्यांघ्रिं विबुधा भजन्ति सततं लब्धुं निवासस्थलीं
पायान्मां भवतापतारणरतः श्रीविश्वकर्मा प्रभुः।।
(२)
विश्वब्रह्माण्डस्रष्टा सकलभयहरो यन्त्रशास्त्रविदग्धो
देवानां कार्यकर्ता दिनकरसदृशो हंसराजाधिरूढः।
शिल्पाचार्यः सुविद्यस्त्रिभुवनजनको ज्ञानविज्ञानदाता
विश्वात्मा विश्वकर्मा विविधगुणयुतः पातु मां विश्वशिल्पी।।
(३)
शान्तः सौम्यकलेवरः कनकभो यज्ञोपवीतान्वितः
शिष्टः कर्मपटुर्विलासरहितो नम्रो गुणैर्मण्डितः।
देवाज्ञापरिपालको निरलसो हंसायनो बुद्धिमान्
भक्त्या तं प्रणमामि कर्मकुशलं श्रीविश्वकर्मप्रभुम्।।
(४)
ब्रह्मा सुन्दरताकृतेऽस्य जगतो व्यस्तो यदाभवद् भृशं
तत्कालं मुनिजो प्रभासतनयो जातो महाकर्मठः।
स्रष्टुर्व्यग्रमनो निहत्य नितरां यो मोदतां दत्तवान्
भक्त्या तं प्रणमामि कर्मकुशलं श्रीविश्वकर्मप्रभुम्।।
(५)
ग्रामा मञ्जुमहोदधिश्च सरितः खाता वनं पर्वता
उद्यानानि गृहाणि शस्यनिकरः कूपं च भूमिस्थलम्।
संपत् क्षेत्रततिः खनिश्च नगरं यस्यापि रम्या कृतिः
भक्त्या तं प्रणमामि कर्मकुशलं श्रीविश्वकर्मप्रभुम्।।
(६)
ग्रामे वासगृहाणि मानवकृते प्रासादरीतेः कला
देवागारकृतिः पशुस्थलततिर्नीडादिरम्यस्थलम्।
देवस्य प्रतिमाकृतिर्बहुविधिर्यस्यापि कार्यं क्षितौ
भक्त्या तं प्रणमामि कर्मकुशलं श्रीविश्वकर्मप्रभुम्।।
(७)
शिल्पानां रचना गृहोपकरणं द्रव्याणि लोकस्य च
नानाकार्यविधानकारणचयो यानस्य शस्त्रस्य च।
निर्माणप्रविधिर्यदीयसुकृतिर्लोके समस्ते ध्रुवं
भक्त्या तं प्रणमामि कर्मकुशलं श्रीविश्वकर्मप्रभुम्।।
(८)
शिल्पाचार्यवरः सुबुद्धिभरितः काष्ठादिकार्याकरो
यन्त्रे जीवनदाकश्च कनके रूपप्रदस्तात्त्विकः।
पाषाणप्रतिमाकरोऽखिलकृते संसाधको यो मुदा
भक्त्या तं प्रणमामि कर्मकुशलं श्रीविश्वकर्मप्रभुम्।।
(९)
रम्यं पुष्पकचंकुरं रविरथं तन्नन्दिघोषं गुरुं
देवेन्द्रस्य रथं च गोलकपुरं कैलासनाथालयम्।
सुत्राम्नो नगरं कुवेरभवनं ख्यातोपि निर्माय यो
भक्त्या तं प्रणमामि कर्मकुशलं श्रीविश्वकर्मप्रभुम्।।
(१०)
यो चक्रं कृतवान् हरेः पशुपतेः शूलं महाभीषणं
वज्रं स्वर्गपतेर्धनू रणकृते खड्गं च शौर्यात्मने।
नानास्त्राणि शरा विचित्रकवचं यस्यापि कार्यावली
भक्त्या तं प्रणमामि कर्मकुशलं श्रीविश्वकर्मप्रभुम्।।
(११)
सौदाम्नीद्युतिसंनिभं मुनिसुतं श्वेताङ्गवस्त्रान्वितं
भास्वद्धारगलं चतुर्भुजयुतं केयूरशोभाकरम्।
हंसारोहणसुन्दरं विरचनाज्ञानप्रभामण्डितं
वन्दे सर्वसृजं च शिल्पजनकं श्रीविश्वकर्मप्रभुम्।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीविश्वकर्मध्यान समाप्तम्।
-------०----
Comments
Post a Comment