श्रीविश्वकर्मोपचारपूजा
श्रीविश्वकर्मोपचारपूजा
रचयिता
पं. श्रीव्रजकिशोरत्रिपाठी
******************
(१. क) आवाहनम्
आवाहयामि प्रणिपत्य देव !
गन्धेन पुष्पाणि नतिं प्रदाय।
स्वीकृत्य कर्मप्रिय विश्वकर्मन् !
पूजास्थले सन्निहितो भवात्र।।
(ख) आसनम्
सम्पादितं पुष्पमयं विशिष्टं
दिव्यासनं सुन्दरपृष्ठयुक्तम्।
कुशेन पूतं कृपया गृहाण
निर्माणदेव ! प्रणमामि पाहि।।
(ग) पदासनम्
पादद्वयाभ्यां रुचिरं महार्घं
सम्पादितं कोमलभव्यपीठम्।
संस्थाप्य शिल्पिन् ! चरणौ सुखार्थं
कर्म प्रदेहि प्रणमामि नित्यम्।।
(२) स्वागतम्
सुस्वागतं ते परिपूजनाय
प्रसूनषट्कं प्रददामि भक्त्या।
गृहाण शिल्पिन् ! मम मङ्गलाय
नत्वा पदाब्जे शरणं प्रयामि।।
(३) पाद्यम्
शैत्यं जलं गन्धमयं पवित्रं
सुखप्रदं शान्तिकरं सुपाद्यम्।
ददामि तत् ते चरणारविन्दे
मनोरथं मे परिपूरय त्वम्।।
(४) अर्घ्यम्
अर्घ्याय पुष्पं सलिलं सगन्धं
कुशेन तुभ्यं प्रददे समन्त्रम्।
प्रीत्या गृहीत्वा भव शान्तचेता
ममेष्टसिद्धिं नितरां कुरुष्व।।
(५) आचमनीयम्
गङ्गाजलं गन्धमयं पवित्रं
ददामि तत् ते मुखशोधनार्थम्।
आचम्य मे देहि सुखं च शान्तिं
नमामि शिल्पिन् ! सततं क्षमस्व।।
(६) मधुपर्कम्
सुकांस्यपात्रे मधुना च दध्ना
हव्येन कृत्वा मधुपर्कमिष्टम्।
मुखे ददे ते कृपया गृहाण
हे विश्वकर्मन् ! सततं प्रपाहि।।
(७) पुनराचमनम्
जलं सुशैत्यं कुसुमप्रयुक्तं
गन्धेन शुद्धं मुखशोधनार्थम्।
भक्त्या ददेहं पुनराचमस्व
यन्त्रांशकारिन् परिपाहि नित्यम्।।
(८. क) पञ्चामृतस्नानम्
क्षीरेण दध्ना मधुना घृतेन
मिष्टेन कृत्वा तव मोदनार्थम्।
पञ्चामृतं स्नानकृते ददामि
हे देवशिल्पिन् ! कृपया गृहाण।।
(ख) स्नानम्
सुवासितं गन्धयुतं पवित्रं
संगृह्य तोयं सुरदीर्घिकायाः।
स्नानाय तुभ्यं प्रददे प्रणम्य
निर्माणकर्मप्रिय ! तद् गृहाण।।
(९.क) वस्त्रम्
सुवर्णरूपं रमणीयसूत्रं
पीताम्बरं देहविभूषणार्थम्।
कटिप्रदेशे तव मण्डयामि
हे विश्वकर्मन् ! कृपया गृहाण।।
(ख) उत्तरीयम्
दीर्घं विशेषं सकलस्य काम्यं
पीतस्वरूपं कमनीयरूपम्।
भव्योत्तरीयं तव देहभागे
ददे गृहीत्वा वरदो भव त्वम्।।
(ग) यज्ञोपवीतम्
नवीनसूत्रं नवदेवयुक्तं
यज्ञोपवीतं परमं पवित्रम्।
स्कन्धे त्वदीये परिधारयामि
प्रासादकर्त्तर्भगवन् ! प्रपाहि।।
(१०) आभरणम्
विभिन्नरत्नैर्विरचय्य दिव्या
भूषाश्च हारं मुकुटं रूपाढ्यम्।
सर्वाङ्गभागे परिभूषमामि
शिल्पेश्वर ! त्वं कृपया गृहाण।।
(११. क) गन्धः
गन्धः सुगन्धिः सलिलेन घृष्टः
कर्पूरयुक्तो हिमभावपूर्णः।
कपालभागे तव चित्रयामि
गृहाण शिल्पिन् भगवन् ! नमामि।।
(ख) सिन्दूरम्
जवानिभं निन्दितरक्तकान्ति
घृतेन घृष्टं तव भालभागे।
सिन्दूरबिन्दुं प्रददे गृहाण
निर्माणकर्मप्रिय विश्वकर्मन् !।।
(१२) पुष्पम्
विभिन्नवर्णानि मनोहराणि
पुष्पाणि सद्यः स्फुटितानि देव !।
सुगन्धयुक्तानि ददामि तुभ्यं
हे हंसगामिन् ! कृपया गृहाण।।
(१३) धूपः
सगुग्गुलं वासमयं सुधूपं
संगृह्य तुभ्यं प्रददे विनम्रम्।
घ्राणाग्रभागे तव दर्शयामि
यन्त्रांशकर्मन् ! परिपाहि नित्यम्।।
(१४) दीपः
सवर्त्तिकं हव्ययुतं शिखाढ्यं
तमोहरं नेत्रसुखस्य मुख्यम्।
दीपं ददे ते पुरतः प्रदीप्तं
हे विश्वकर्मन् ! कृपया गृहाण।।
(१५.क) नैवेद्यम्
फलानि पक्वानि च नारिकेलं
रम्भाफलं स्वादुयुतं सुमिष्टम्।
नैवेद्यभोगं तव भोजनाय
गजासन ! स्वीकुरु नौमि पादे।।
(ख) ताम्बूलम्
ताम्बूलपत्रं खदिरेण रम्यं
गुवाकचूर्णेन लवङ्गयुक्तम्।
एलादिपूर्णं मुखशोधनार्थं
गृहाण शिल्पप्रिय विश्वकर्मन्।।
(१६.क) वन्दनम्
प्रासादकर्त्तर्भगवन् प्रपूज्य
यन्त्रांशकारिन् प्रभुदेवशिल्पिन् ! ।
निर्माणकर्मप्रिय विश्वकर्मन्
त्वत्पादपद्मे शरणं प्रयामि।।
(ख) पुष्पाञ्जलिः
विभिन्नवर्णानि मनोहराणि
पुष्पाणि सद्यः स्फुटितानि शिल्पिन् !।
सुगन्धयुक्तानि संगृह्य तुभ्यं
पुष्पाञ्जलिं भक्तिमना ददामि।।
(ग) नीराजनम्
सुवर्णपात्रोपरि विद्यमानं
कर्पूरपूर्णं कमनीयवासम्।
नीराजनं वह्नियुतं ददामि
यन्त्रीश्वर ! त्वं कृपया गृहाण।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचिता
श्रीविश्वकर्मोपचारपूजा समाप्ता।
-------०----
Comments
Post a Comment